Scroll horizontally to view more | Objective type paper | Maximum Marks | Number of Questions |
|---|
| सामान्यसंस्कृत-I | 75 | 150 |
Note :-
- Objective type paper
- Duration of Paper: Two Hours
- All questions carry equal marks.
- There will be Negative Marking.
Syllabus
1. वैदिकसाहित्यम्
-
(क) अधोनिर्दिष्टदेवतानां सामान्यज्ञानम् -
अग्निः, सवितृ, इन्द्रः, बृहस्पतिः, अश्विनी, वरुणः, उषस्, सोमः ।
-
(ख) अधोलिखितसूक्तानां सामान्यमध्ययनम् -
- ऋग्वेदः
अग्निः (१.१), इन्द्रः (२.१२), पुरुषः (१०.९०), हिरण्यगर्भः (१०.१२१), नासदीयम् (१०.१२९), वाक् (१०.१२५), उषस् (३.६१)
- शुक्लयजुर्वेदः
शिवसंकल्पः (अध्याय ३४/ मन्त्राः १-६), प्रजापतिः (अध्याय २ ३/मन्त्राः १-५)।
-
(ग) संहिता-ब्राह्मण-आरण्यकोपनिषदां लक्षणम्, प्रतिपाद्यविषयानां सामान्यज्ञानम्
-
(घ) अग्निहोत्रम्, अग्निष्टोमयज्ञः, दर्शपौर्णमासयज्ञः, पञ्चमहायज्ञाः इत्येतेषां सामान्याध्ययनम्।
2. ईश-कठ-तैत्तिरीय-उपनिषदां विशेषाध्ययनम् -
3. वेदाङ्गानां (शिक्षा-कल्प-व्याकरण-निरुक्त-छन्दोज्योतिषाम्) सामान्यमध्ययनम्
4. व्याकरणभागः
- (क) संज्ञाज्ञानम्-
इत्संज्ञा-प्रत्याहार-ह्रस्व-दीर्घ-प्लुत-उदात्त-अनुदात्त-स्वरित-उच्चारणस्थान-प्रयत्न-अनुनासिक-सवर्ण-गुण-वृद्धि-धातु-उपसर्ग-निपात-प्रगृह्य-टि-पद-अवसान-संहिता-संयोग-लघु-गुरु-इत्येतेषां सामान्यज्ञानम्।
- (ख) सन्धिज्ञानम्-
यण्-अयादि-गुण-वृद्धि-पररूप-दीर्घ-पूर्वरूप-प्रकृतिभाव-श्चुत्व-ष्टुत्व-अनुनासिक-अनुस्वार-पूर्वसवर्ण-परसवर्ण-सत्व-रुत्व-उत्व-यत्व-यलोप-रलोप-दीर्घ इत्येतेषां ससूत्रं सामान्यज्ञानम्।
- (ग) शब्दरूपाणि-
राम-सर्व-हरि-पति-सखि-पितृ-रमा-मति-स्त्री-ज्ञान-वारि-अस्थि-राजन्-इदम्-युष्मद्-अस्मद्-भवत्-तद्-एतद्-अदस् इत्येतेषां शब्दरूपज्ञानम्।
- (घ) धातुरूपाणि-
- परस्मैपदम्
भू, गम्, पच्, दृश्, पा, कृ, हन्, स्था, दा- धातूनांदश-लकारेषु रूपज्ञानम्।
- आत्मनेपदम्-
कृ, सेव्, लभ्, मुद्, याच्, वृत्-धातूनां लट्-लङ्-लिङ्-लोट्-लृट्-लकारेषु रूपज्ञानम्।
- (ङ) प्रत्ययाः-
तव्यत्, अनीयर्, यत्, ण्यत्, क्यप्, ण्वुल्, तृच्, ल्युट्, णिनिः, क्त, क्तवतु, शतृ, शानच्, क्त्वा, ल्यप्, घञ्। मत्वर्थीयप्रत्ययाः, स्त्रीप्रत्ययाः-टाप्, डीप्, ङीष, डीन्, ति । इत्येतेषां प्रत्ययानां सोदाहरणं सामान्यज्ञानम्।
- (च)कारकप्रकरणम् (सिद्धान्तकौमुदीतः) अधोलिखित-सूत्र-वार्तिकानाम् अर्थोदाहरणानि वाक्यप्रयोगाश्च-
प्रातिपदिकार्थ-लिङ्ग-परिमाण-वचन-मात्रे प्रथमा, कर्तुरीप्सिततमं कर्म, कर्मणि द्वितीया, अधिशीङ्स्थासां कर्म, अकथितं च, उपान्वध्याङ्वसः, अभितः परितः समया निकषा हा प्रतियोगेऽपि, कालाध्वनोरत्यन्तसंयोगे, साधकतमं करणम्, कर्तृकरणयोस्तृतीया, अपवर्गे तृतीया, येनाङ्गविकारः, सहयुक्तेऽप्रधाने, इत्थंभूतलक्षणे, कर्मणा यमभिप्रैति स सम्प्रदानम्, चतुर्थी सम्प्रदाने, रुच्यर्थानां प्रीयमाणः, क्रुधद्द्रुहेर्ष्यासूयार्थानां यं प्रतिकोपः, नमःस्वस्तिस्वाहास्वधाऽलंवषट्योगाच्च, ध्रुवमपायेऽपादानम्, अपादाने पञ्चमी, वारणार्थानामीप्सितः, अन्तर्धी येनादर्शनमिच्छति, भीत्रार्थानां भयहेतुः, जनिकर्तुः प्रकृतिः, भुवः प्रभवः, षष्ठी शेषे, कर्तृकर्मणोः कृति, कृत्यानां कर्तरि वा, उभयप्राप्तौ कर्मणि, आधारोऽधिकरणम्, सप्तम्यधिकरणे च, यतश्च निर्धारणम्, यस्य च भावेनभावलक्षणम्, षष्ठी चानादरे ।
- (छ) समासप्रकरणम् (मध्यसिद्धान्तकौमुदीत :)-
अव्ययं विभक्तीत्यादि..., नदीभिश्च, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः, तृतीया तत्कृतार्थेन गुणवचनेन, कर्तृकरणे कृताबहुलम्, चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः, पञ्चमी भयेन, षष्ठी, सप्तमीशौण्डैः, तद्धितार्थोत्तरपदसमाहारे च, संख्यापूर्वी द्विगुः, विशेषणं विशेष्येण बहुलम्, उपमानानि सामान्यवचनैः, तस्मान्नुडचि, कुगतिप्रादयः, उपपदं मतिङ्, रात्राह्नाहाः पुंसि, अनेकमन्यपदार्थे, हलदन्तात्सप्तम्याः संज्ञायाम्, चार्थे द्वन्द्वः, द्वन्द्वे घिः, अजाद्यदन्तम्, अल्पाच्चतरम्, पिता मात्रा, इत्येतेषां सूत्राणामुदाहरणपूर्वकमर्थज्ञानञ्च।
5. संस्कृतानुवादः अशुद्धिसंशोधनञ्च- (पाठ्यक्रमानुसारम्)
6. राजस्थानीय-संस्कृतविदुषांतत्कृतीनाञ्च सामान्याध्ययनम्-
पं. अम्बिकादत्तव्यासः, पं. मधुसूदनओझा, भट्टमथुरानाथशास्त्री, पं. गिरिधरशर्म चतुर्वेदी, पं. नवलकिशोरकांकरः, पं. दुर्गाप्रसादद्विवेदी, पं. हरिशास्त्रीदाधीचः, पं. विद्याधरशास्त्री, पं. जगदीशचन्द्र आचार्यः, पं. नित्यानन्दशास्त्री, पं. श्रीरामदवे, पं. गणेशरामशर्मा, पं. ब्रह्मानन्दशर्मा । देवर्षिः कलानाथशास्त्री।