
विस्तृत पाठ्यक्रम विश्लेषण देखने के लिए एक पेपर चुनें।
| Objective type paper | Maximum Marks | Number of Questions |
|---|---|---|
| व्याकरण-I | 75 | 150 |
Note :-
Syllabus
वैयाकरणसिद्धान्तकौमुदी
1.1 संज्ञाप्रकरणादारभ्य पञ्चसन्धिपर्यन्तो भागः
संज्ञाप्रकरणम् - इत्संज्ञा-प्रत्याहार-हस्व-दीर्घ-प्लुत-उदात्त-अनुदात्त-स्वरित-अनुनासिक-सवर्णसवर्णग्राहक-गुण-वृद्धि-धातु-उपसर्ग-निपात-गति-विकल्प-तदन्त-अवसान-संहिता-संयोग-लघु-गुरु-इत्येतेषां संज्ञासूत्राणामर्थोदाहरणानि।
परिभाषाप्रकरणम्- इकोगुणवृद्धी, आद्यन्तौटकितौ, मिदचोऽन्त्यात्परः, षष्ठी स्थानेयोगा, स्थानेऽन्तरतमः, तस्मिन्नितिनिर्दिष्टे पूर्वस्य, तस्मादित्युत्तरस्य, अलोऽन्त्यस्य, अनेकाल्शित्सर्वस्य इत्येतेषां सूत्राणामर्थोदाहरणानि ।
अच्सन्धिप्रकरणम् - यण्-अयादि-गुण-वृद्धि-पररूप-दीर्घ-पूर्वरूप-प्रकृतिभावसन्धिसम्बद्ध-सूत्राणामर्थोदाहरणानि ।
हल्सन्धिप्रकरणम् - श्चुत्व-ष्टुत्व-अनुनासिक-अनुस्वार-पूर्वसवर्ण-परसवर्ण-कुक्-टुक्-ङमुट्-धुट्-इत्येतत्सन्धिसम्बद्धसूत्राणामर्थोदाहरणानि।
विसर्गसन्धिप्रकरणम्-सत्व-रुत्व-उत्व-यत्व-यलोप-रलोप-दीर्घ-सुलोप-विधायक-सूत्राणामर्थोदाहरणानि ।
1.2 अजन्तपुंल्लिङ्गादारभ्य हलन्तनपुंसकलिङ्गप्रकरणान्तं यावत्- राम-सर्व-हरि-पति-सखि-पितृ-गो-रमा-सर्वा-मति-स्त्री-श्री-ज्ञान-वारि-अस्थि-लिह्-विश्ववाह्-इदम्-राजन्-युष्मद्-अस्मद्-भवत्-तद्-एतद्-अदस्-किम्-वाक्-अप्-दिश्-अहन्-इत्येतत्शब्दसम्बद्ध-सूत्राणामर्थोदाहरणानि ।
1.3 अव्ययप्रकरणम्- स्वरादिनिपातमव्ययम्, कृन्मेजन्तः, क्त्वातोसुन्कसुनः, अव्ययीभावश्च, अव्ययादाप्सुपः इत्येषां सूत्राणामर्थोदाहरणानि ।
1.4 स्त्रीप्रत्ययप्रकरणम्- टाप्, चाप्, डाप्, डीप्, ङीष, ङीन्, ऊङ्, तिः - इत्येषां प्रत्ययविधायकसूत्राणामर्थोदाहरणानि ।
1.5 कारकप्रकरणम्- प्रथमा-द्वितीया-तृतीया-चतुर्थी-पञ्चमी-षष्ठी-सप्तमी- विभक्ति- सम्बद्धानिसूत्रवार्तिकानि तदर्थोदाहरणानि च।
1.6 समासप्रकरणम्- समर्थः पदविधिः, प्राक्कडारात्समासः, सहसुपा, सुपोधातुप्रातिपदिकयोः, अव्ययीभावः, अव्ययं विभक्तीत्यादि..., प्रथमानिर्दिष्टं समास उपसर्जनम्, उपसर्जनंगूर्वम्, गोस्त्रियोरुपसर्जनस्य, नाव्ययीभावादतोऽम्त्वपञ्चम्याः, तृतीयासप्तम्योर्बहुलम्, अव्ययीभावश्च, अव्ययीभावे चाकाले, तत्पुरुषः, द्विगुश्च, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः, तृतीया तत्कृतार्थेन गुणवचनेन, कर्तृकरणे कृताबहुलम्, चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः, पञ्चमी भयेन, षष्ठी, सप्तमी शौण्डैः, तत्रोपपदं सप्तमीस्थम्, उपपदमतिङ्, कुगतिप्रादयः, तद्धितार्थोत्तरपदसमाहारे च, संख्यापूर्वी द्विगुः, विशेषणं विशेष्येण बहुलम्, उपमानानि सामान्यवचनैः, उपमितं व्याघ्रादिभिः सामान्याप्रयोगे, शेषो बहुव्रीहिः, अनेकमन्यपदार्थे, स्त्रियाः पुंवद्भाषितपुंस्कादनूङ्समानाधिकरणे, अप्पूरणीप्रामाण्योः, नद्युतश्च, केऽणः, नकपि, चार्थे द्वन्द्वः, राजदन्तादिषुपरम्, द्वन्द्वे घिः, अजाद्यदन्तम्, अल्पाच्चतरम्, वृद्धो यूना तल्लक्षणश्चेदेवविशेषः, स्त्रीपुंवच्च, पुमान् स्त्रिया, भ्रातृपुत्रौस्वसृदुहितृभ्याम्, नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम्, पिता मात्रा, वृत्तिलक्षणं वृत्तिभेदाः लौकिकालौकिकविग्रहः, समासभेदा इत्येतत्सम्बद्धानि व्याख्यानान्युदाहरणानि च।
1.7 कृत्यप्रकरणं पूर्वकृदन्तप्रकरणञ्च - धातोः, वाऽसरूपोऽस्त्रियाम्, कृत्याः, कर्तरिकृत्, तयोरेवकृत्यक्तखलर्थाः, तव्यत्तव्यानीयरः, कृत्यलुटोबहुलम्, अचो यत्, ईद्यति, पोरदुपधात्, वदःसुपिक्यप् च, भुवोभावे, एतिस्तुशास्वृदृजुषः क्यप्, ह्रस्वस्य पिति कृति तुक्, मृजेर्विभाषा, चजोःकुः घिण्यतोः, ऋहलोर्ण्यत्, वचोऽशब्दसंज्ञायाम्, भोज्यं भक्ष्ये, ओरावश्यके, ण्वुल्तृचौ, नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः, इगुपधज्ञाप्रीकिरः कः, आतश्चोपसर्गे, पाघ्राध्माधेदृशः कः, ददातिदधात्योर्विभाषा, गेहेकः, शिल्पिनिष्वुन्, कर्मण्यण्, आतोऽनुपसर्गेकः, सुपिस्थः, गापोष्टक्, आङि ताच्छील्ये, चरेष्टः, भिक्षासेनादायेषु च, एजेः खश्, अरुर्द्विषदजन्तस्य मुम्, खित्यनव्ययस्य, असूर्यललाटयोः दृशितपोः, प्रियवशेवदः खच्, सत्सूद्विषद्द्रुहयुजविदमिदित्यादि..., क्विप् च, सुप्यजातौ णिनिस्ताच्छील्ये, मनः, आत्ममानेखश्च, भूतेकरणे यजः, कर्मणि क्तः, ब्रह्मभ्रूणवृत्रेषुक्विप्, सप्तम्यां जनेर्डः, क्तक्तवतूनिष्ठा, निष्ठा, रदाभ्यां निष्ठातोनः पूर्वस्य च दः, शुषः कः, पचो वः, क्षायो मः, दधातेर्हिः, दोदद्घोः, अच उपसर्गात्तः, अदो जग्धिर्त्यप्ति किति, मतिबुद्धिपूजार्थेभ्यश्च, नपुंसके भावे क्तः, लटः शतृशानचावप्रथमासमानाधिकरणे, आने मुक्, विदेःशतुर्वसुः, तौ सत्, लृटः सद्वा, तृन्, अर्तिलूधूसूखनसहचर इत्रः, पुवः संज्ञायाम्, इत्येषां सूत्राणामर्थोदाहरणानि।
पाणिनीयशिक्षा (सम्पूर्णा) - वर्णभेदः, वर्णोच्चारणप्रक्रिया, वर्णोच्चारणस्थानानि, पाठकगुणदोषाः, वेदाङ्गानामध्ययनमहत्त्वम् इत्येतत्सम्बद्धश्लोकानामर्थोदाहरणानि ।
लिङ्गानुशासनम् (सम्पूर्णम्) - पुंल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्ग-विधायकानां सूत्राणामर्थोदाहरणानि ।