
विस्तृत पाठ्यक्रम विश्लेषण देखने के लिए एक पेपर चुनें।
| Objective type paper | Maximum Marks | Number of Questions |
|---|---|---|
| व्याकरण-II | 75 | 150 |
Note :-
Syllabus
1. प्रौढ़मनोरमा – (संज्ञाप्रकरणादारभ्य अच्सन्धिप्रकरणं यावत्)
2. लघुशब्देन्दुशेखरः – (संज्ञाप्रकरणं, कारकप्रकरणस्य प्रथमाद्वितीयाविभिक्तिमात्रं च)
3. व्याकरणमहाभाष्यम् - प्रथमाह्निकम् अथ शब्दानुशासनम्, शब्दस्वरूपं, शब्दानुशासनस्य मुख्यगौणप्रयोजनानि, शब्दस्य नित्यानित्यत्वम्, सिद्धेशब्दार्थसम्बन्धे, ज्ञाने प्रयोगे वा धर्माधर्मविचारः, व्याकरणपदार्थः, वर्णोपदेशप्रयोजनम्, व्याकरणलक्षणम्, इत्येतत्सम्बद्धानि व्याख्यानानि ।
4. वैयाकरणभूषणसारः (धात्वर्थप्रकरणम्) मङ्गलाचरणम्, फलव्यापारयोर्धातुरित्यादिकारिकार्थः, धात्वर्थविषयेप्राच्यनव्यनैयायिकमतम्, मीमांसकमतम्, वैयाकरणमतम्, फललक्षणम्, व्यापारलक्षणम्, धात्वर्थविषयेवैयाकरणसिद्धान्तस्य प्रामाण्यम्। तिर्द्धाविषये नैयायिकमतम्, मीमांसकमतम् वैयाकरणमतम्, वैयाकरणसिद्धान्तस्य प्रामाण्यम्,कर्तृकर्मसंख्याकालानामन्वयः, शाब्दबोधेनैयायिकमीमांसकवैयाकरणानां मतेसकर्मकाकर्मक- लक्षणम्, क्रियायाः साध्यत्वं सिद्धत्वं च, इत्येतत्सम्बद्धानि व्याख्यानानि।
5. परमलघुमञ्जूषा - शक्तिलक्षणाव्यंजनावृत्तयः, शाब्दबोधसहकारिकारणनि च शक्तिस्वरूपम्, लक्षणास्वरूपं तत्खण्डनं च, व्यंजनास्वरूपम्, शाब्दबोधसहकारिकारणानि।
6. वाक्यपदीयम् - आदितः दशकारिकां यावत् शब्दब्रह्मणः स्वरूपम्,शब्दब्रह्मणः कालशक्तिः, शब्दब्रह्मणोभोक्तृभोक्तव्यभोगरूपेण च स्थितिः, शब्दब्रह्मणः प्राप्त्युपायः, वेदभेदानां बहुमार्गत्वम्, स्मृतीनां प्रामाण्यम्, दर्शनभेदः, प्रणवरूपविद्यायाः सत्यत्वम्, अङ्गोपाङ्गविद्याभेदाः, इत्येतत्सम्बद्धानि व्याख्यानानि ।
7. परिभाषेन्दुशेखरः- आदित एकदेशविकृतमनन्यवत्परिभाषापर्यन्तोभागः आदित एकदेशविकृतमनन्यवदित्यन्तपरिभाषाणां व्याख्यानानि ।
8. व्याकरणशास्त्रस्येतिहासः व्याकरणशास्त्रपरम्परा, अष्टौव्याकरणानिवृत्त्कर्त्तारः पाणिनिः, कात्यायनः, पतंजलिः, भर्तृहरिः, भट्टोजिदीक्षितः, नागेशभट्टश्च इत्येतेषां कृतयः कालश्च।